|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.234. अध्यायः 234
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति विपदि धैर्यालम्बनस्य सुखसाधनताप्रतिपादकबलिशक्नसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-234-0x(6203)(74637)
मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि।
बन्धुनाशे महीपाल राज्यनाशेऽथवा पुनः॥ 12-234-1(74638)
त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ।
एतद्भवन्तं पृच्छामि तन्मे त्वं वक्तुमर्हसि॥ 12-234-2(74639)
भीष्म उवाच। 12-234-3x(6204)
पुत्रदारैः सुखैश्चैव वियक्तस्य धनेन च।
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप।
धैर्येण युक्तस्य सतः शरीरं न विशीर्यते॥ 12-234-3(74640)
[विशोकता सुखं धत्ते धत्ते चारोग्यमुत्तमम्।]
आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम्॥ 12-234-4(74641)
यश्च प्राज्ञो नरस्तात सात्विकीं वृत्तिमास्थितः।
तस्यैश्वर्यं च धैर्यं च व्यवसायश्च कर्मसु॥ 12-234-5(74642)
अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
बलिवासवसंवादं पुनरेव युधिष्ठिर॥ 12-234-6(74643)
वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये।
विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ॥ 12-234-7(74644)
इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते।
समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयंभुवि॥ 12-234-8(74645)
रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः।
गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः॥ 12-234-9(74646)
चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम्।
आरुह्यैरावणं शक्रस्त्रैलोक्यमनुसंययौ॥ 12-234-10(74647)
स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे।
बलिं वैरोचनिं वज्री ददर्शोपससर्प च॥ 12-234-11(74648)
तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम्।
सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे॥ 12-234-12(74649)
दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम्।
अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः॥ 12-234-13(74650)
दैत्य न व्यथसे शौर्यादथवा वृद्धसेवया।
तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम्॥ 12-234-14(74651)
शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात्।
वैरोचने किमाश्रित्य शोचितव्ये न शोचसि॥ 12-234-15(74652)
श्रैष्ट्यं प्राप्य स्वजातीनां भुक्त्वा भोगाननुत्तमान्।
हृतस्वरत्नराज्यस्त्वं ब्रूहि कस्मान्न शोचसि॥ 12-234-16(74653)
ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे।
तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि॥ 12-234-17(74654)
बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः।
हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि॥ 12-234-18(74655)
नष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम्।
त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत्॥ 12-234-19(74656)
एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम्।
श्रुत्वा दुःखमसंभ्रान्तो बलिर्वैरोचनोऽब्रवीत्॥ 12-234-20(74657)
निगृहीते मयि भृशं शक्र किं कत्थितेन ते।
वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर॥ 12-234-21(74658)
अशक्तः पूर्वमासीस्त्वं कथंचिच्छक्ततां गतः।
कस्त्वदन्य इमां वाचं सुक्रूरां वक्तुमर्हति॥ 12-234-22(74659)
यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम्।
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः॥ 12-234-23(74660)
अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः।
एकः प्राप्नोति विजयमेकश्चैव पराजयम्॥ 12-234-24(74661)
मा च ते भूत्स्वभावोऽयं मयि दानवपुङ्गवे।
ईश्वरः सर्वभूतानां विक्रमेण जितो बलात्॥ 12-234-25(74662)
नैतदस्मत्कृतं शक्र नैतच्छक्र कृतं त्वया।
यत्त्वमेवं गतो वज्रिन्यद्वाऽऽप्येवं गता वयम्॥ 12-234-26(74663)
अहमासं यथाऽद्य त्वं भविता त्वं यथा वयम्।
मावमंस्था मया कर्म दुष्कृतं कृतमित्युत॥ 12-234-27(74664)
सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति।
पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा॥ 12-234-28(74665)
कालः काले नयति मां त्वां च कालो नयत्ययम्।
तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम्॥ 12-234-29(74666)
न मातृपितृशुश्रूषा न च दैवतपूजनम्।
नान्यो गुणसमाचारः पुरुषस्य सुखावहः॥ 12-234-30(74667)
न विद्या न तपो दानं न मित्राणि न बान्धवाः।
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम्॥ 12-234-31(74668)
नागामिनमनर्थं हि प्रतिघातशतैरपि।
शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः॥ 12-234-32(74669)
पर्यायैर्हन्यमानानां परित्राता न विद्यते।
इदं तु दुःखं यच्छक्र कर्ताऽहमिति मन्यसे॥ 12-234-33(74670)
यदि कर्ता भवेत्कर्ता न क्रियेत कदाचन।
यस्मात्तु क्रियते कर्ता तस्मात्कर्ताऽप्यनीश्वरः॥ 12-234-34(74671)
कालेन त्वाऽहमजयं कालेनाहं जितस्त्वया।
गन्ता गतिमतां कालः कालः कलयति प्रजाः॥ 12-234-35(74672)
इन्द्र प्राकृतया बुद्ध्या प्रलपन्नावबुद्ध्यसे।
केचित्त्वां बहुमन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा॥ 12-234-36(74673)
कथमस्मद्विधो नाम जानँल्लोकप्रवृत्तयः।
कालेनाभ्याहतः शोचेन्मुह्येद्वाऽप्यथविभ्रमेत्॥ 12-234-37(74674)
कथं कालपरीतस्य मम वा मद्विधस्य वा।
बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति॥ 12-234-38(74675)
अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः।
ते सर्वे शक्र यास्यन्ति मार्गमिन्द्रशतैर्गतम्॥ 12-234-39(74676)
त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया।
काले परिणते कालः कलयिष्यति मामिव॥ 12-234-40(74677)
बहूनीन्द्रसहस्राणि दैवतानां युगे युगे।
अभ्यतीतानि कालेन कालो हि दुरतिक्रमः॥ 12-234-41(74678)
इदं तु लब्ध्वा संस्थानमात्मानं बहु मन्यसे।
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम्॥ 12-234-42(74679)
न चेदमचलं स्थानमनन्तं वाऽपि कस्यचित्।
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे॥ 12-234-43(74680)
अविश्वस्ते विश्वसिषि मन्यसे वाऽध्रुवे ध्रुवम्।
नित्यं कालपरीतात्मा भवत्येवं सुरेश्वर॥ 12-234-44(74681)
ममेयमिति मोहात्त्वं राजश्रियमभीप्ससि।
नेयं तव न चास्माकं न चान्येषां स्थिरा मता॥ 12-234-45(74682)
अतिक्रम्य बहूनन्यांस्त्वयि तावदियं गता।
कंचित्कालमियं स्थित्वा त्वयि वासव चञ्चला॥ 12-234-46(74683)
गौर्निवासमिवोत्सृज्य पुनरन्यं गमिष्यति।
सुरेशा ये ह्यतिक्रान्तास्तान्न संख्यातुमुत्सहे॥ 12-234-47(74684)
त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरंदर।
सवृक्षौषधिगुल्मेयं ससरित्पर्वताकरा॥ 12-234-48(74685)
तानिदानीं न पश्यामि यैर्भुक्तेयं पुरा मही।
पृथुरैलो मयो भीमो नरकः शम्बरस्तथा॥ 12-234-49(74686)
अश्वग्रीवः पुलोमा च स्वर्भानुरमितप्रभः]
प्रह्लादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः॥ 12-234-50(74687)
ह्रीनिषेवः सुहोत्रश्च भूरिहा पुष्पवान्वृषः।
सत्येषुर्ऋषभो बाहुः कपिलाश्वो निरूपकः॥ 12-234-51(74688)
बाणः कार्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैर्ऋतिः।
संकोचोऽथ वरीताक्षो वराहाश्वो रुचिप्रभः॥ 12-234-52(74689)
विश्वजित्प्रतिरूपश्च वृषाण्डो विष्करो मधुः।
हिरण्यकशिपुश्चैव कैटभश्चैव दानवः॥ 12-234-53(74690)
दैतेया दानवाश्चैव सर्वे ते नैर्ऋतैः सह।
एते चान्ये च बहवः पूर्वे पूर्वतराश्च ये॥ 12-234-54(74691)
दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम्।
बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः॥ 12-234-55(74692)
कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः।
सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः॥ 12-234-56(74693)
सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः।
अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः॥ 12-234-57(74694)
सर्वे संहननोपेताः सर्वे परिघबाहवः।
सर्वे मायाशतधराः सर्वे ते कामरूपिणः।
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः॥ 12-234-58(74695)
सर्वे सत्यव्रतपराः सर्वे कामविहारिणः।
सर्वे वेदव्रतपराः सर्वे चैव बहुश्रुताः॥ 12-234-59(74696)
सर्वे संमतमैश्वर्यमीश्वराः प्रतिपेदिरे।
न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम्॥ 12-234-60(74697)
सर्वे यथार्हदातारः सर्वे विगतमत्सराः।
सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदरे॥ 12-234-61(74698)
सर्वे दाक्षायणीपुत्राः प्राजपत्या महाबलाः।
ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः॥ 12-234-62(74699)
त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः।
न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः॥ 12-234-63(74700)
मुञ्चेच्छां कामभोगेषु मुञ्जेमं श्रीभवं मदम्।
एवं स्वराज्यनाशे त्वं शोकं संप्रसहिष्यसि॥ 12-234-64(74701)
शोककाले शुचो मा त्वं हर्षकाले च मा हृषः।
अतीतानागतं हित्वा प्रत्युत्पन्नेन वर्तय॥ 12-234-65(74702)
मां चेदभ्यागतः कालः सदा युक्तमतन्द्रितः।
क्षमस्व न चिरादिन्द्र त्वामप्युपगमिष्यति॥ 12-234-66(74703)
त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह।
संयते मयि ननं त्वमात्मानं बहु मन्यसे॥ 12-234-67(74704)
कालः प्रथममायान्मां पञ्चात्त्वामनुधावति।
तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि॥ 12-234-68(74705)
को हि स्थातुमलं लोके मम क्रुद्धस्य संयुगे।
कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव॥ 12-234-69(74706)
यत्तद्वर्षसहस्रान्तं तूर्णं भवितुमर्हति।
यथा मे सर्वगात्राणि न सुस्थानि महौजसः॥ 12-234-70(74707)
अहमैन्द्राच्च्युतः स्थानात्त्वमिन्द्रः प्रकृतो दिवि।
सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययः॥ 12-234-71(74708)
किं हि कृत्वा स्वमिन्द्रोऽद्य किं वा कृत्वा वयं च्युताः।
कालः कर्ता विकर्ता च सर्वमन्यदकारणम्॥ 12-234-72(74709)
नाशं विनाशमैश्वर्यं सुखदुःखे भवाभवौ।
विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत्॥ 12-234-73(74710)
त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव।
किं कत्थसे मां किंच त्वं कालेन निरपत्रयः॥ 12-234-74(74711)
त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम।
समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम्॥ 12-234-75(74712)
आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह।
मया विनिर्जिताः पूर्वं मरुतश्च शचीपते॥ 12-234-76(74713)
त्वमेव शक्र जानासि देवासुरसमागमे।
समेता विबुधा भग्नास्तरसा समरे मया॥ 12-234-77(74714)
पर्वताश्चासकृत्क्षिप्ताः सवनाः सवनौकसः।
सशृङ्गशिखरा भग्नाः समरे मूर्ध्निं ते मया॥ 12-234-78(74715)
किं नु शक्यं मया कर्तुं कालो हि दुरतिक्रमः।
न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना॥ 12-234-79(74716)
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः।
तेन त्वां मर्षये शक्र दुर्मर्षणतरस्त्वया॥ 12-234-80(74717)
तं मां परिणते काले परीतं कालवह्निना।
नियतं कालपाशेन बद्धं शक्र विकत्थसे॥ 12-234-81(74718)
अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः।
बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा॥ 12-234-82(74719)
लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ।
वधो बन्धप्रमोक्षश्च सर्वं कालेन लभ्यते॥ 12-234-83(74720)
नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः।
सोयं पचति कालो मां वृक्षे फलमिवागतम्॥ 12-234-84(74721)
यान्येव पुरुषः कुर्वन्सुखैः कालेन युज्यते।
पुनस्तान्येव कुर्वाणो दुःखैः कालेन युज्यते॥ 12-234-85(74722)
न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति।
तेन शक्र न शोचामि नास्ति शोके सहायता॥ 12-234-86(74723)
यदा हि शोचतः शोको व्यसनं नाषकर्षति।
सामर्थ्यं शोचतो नास्तीत्यतोऽहं नाद्य शोचिमि॥ 12-234-87(74724)
भीष्म उवाच। 12-234-88x(6205)
एवमुक्तः सहस्राक्षो भगवान्पाकशासनः।
प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः॥ 12-234-88(74725)
सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान्।
कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः॥ 12-234-89(74726)
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी।
व्रुवन्न व्यथसेऽद्य त्वं धैर्यात्सत्यपराक्रम॥ 12-234-90(74727)
को हि विश्वासमर्थेषु शरीरे वा शरीरभृत्।
कर्तुमुत्सहते लोके दृष्ट्वा संप्रस्थितं जगत्॥ 12-234-91(74728)
अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम्।
कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे॥ 12-234-92(74729)
न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित्।
सूक्ष्माणां महतां चैव भूतानां परिपच्यताम्॥ 12-234-93(74730)
अनीशस्याप्रमत्तस्य भूतानि पचतः सदा।
अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते॥ 12-234-94(74731)
अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु।
प्रयत्नेनाप्यपक्रान्तो दृष्टपूर्वो न केनचित्॥ 12-234-95(74732)
पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः।
कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः॥ 12-234-96(74733)
अहोरात्रांश्च मासांश्च क्षणान्काष्ठा लवान्कलाः।
संपीडयति यः कालो वृद्धिं वार्धुपिको यथा॥ 12-234-97(74734)
इदमद्य करिष्यामि श्वः कर्ताऽस्मीति वादिनम्।
कालो हरति संप्राप्तो नदीवेग इव द्रुमम्॥ 12-234-98(74735)
इदानीं तावदेवासौ मया दृष्टः कथं मृतः।
इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम्॥ 12-234-99(74736)
नश्यन्त्यर्थास्तथा भोगाः स्थानमैश्वर्यमेव च।
जीवितं जीवलोकस्य कालेनागम्य नीयते॥ 12-234-100(74737)
उच्छ्राया विनिपातान्ता भावोऽभावः स एव च।
अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः॥ 12-234-101(74738)
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी।
अहमासं पुरा चेति मनसाऽपि न बुद्ध्यते॥ 12-234-102(74739)
कालेनाक्रम्य लोकेऽस्मिन्पच्यमाने बलीयसा।
अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुद्ध्यते॥ 12-234-103(74740)
ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च।
स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति॥ 12-234-104(74741)
भवांस्तु भावतत्त्वज्ञो विद्वाञ्ज्ञानतपोन्वितः।
कालं पश्यति सुव्यक्तं पाणावामलकं यथा॥ 12-234-105(74742)
कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः।
वैरोचते कृतार्थोऽसि स्पृहणीयो विजानताम्॥ 12-234-106(74743)
सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया।
विहरन्सर्वतोमुक्तो न क्वचिच्च विषीदसि॥ 12-234-107(74744)
रजश्च हि तमश्च त्वां स्पृशते न जितेन्द्रियम्।
निष्प्रीतिं नष्टसंतापमात्मानं त्वमुपाससे॥ 12-234-108(74745)
सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम्।
दृष्ट्वा त्वां मम संजाता त्वय्यनुक्रोशिनी मतिः॥ 12-234-109(74746)
नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धनैः।
आनृशंस्यं परो धर्मो ह्यनुक्रोशश्च मे त्वयि॥ 12-234-110(74747)
मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात्।
प्रजानामुपचारेण स्वस्ति तेऽस्तु महासुर॥ 12-234-111(74748)
यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते।
पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु॥ 12-234-112(74749)
ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम्।
शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः॥ 12-234-113(74750)
वियोनिषु विमोक्ष्यन्ति बीजानि पुरुषा यदा।
संकरं कांस्यभाण्डैश्च बलिं चैव कुपात्रकैः॥ 12-234-114(74751)
चातुर्वर्ण्यं यदा कृत्स्नममर्यादं भविष्यति।
एकैकस्ते तदा पाशः क्रमशः परिमोक्ष्यते॥ 12-234-115(74752)
अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय।
सुखी भव निराबाधः स्वस्थचेता निरामयः॥ 12-234-116(74753)
भीष्म उवाच। 12-234-117x(6206)
तमेवमुक्त्वा भगवाञ्छतक्रतुः
प्रतिप्रयातो गजराजवाहनः।
विजित्य सर्वानसुरान्सुराधिपो
ननन्द हर्षेण बभूव चैकराट्॥ 12-234-117(74754)
महर्षयस्तुष्टुवुरञ्जसा च तं
वृषाकर्पि सर्वचराचरेश्वरम्।
हिमापहो हव्यमुवाह चाध्वरे
तथाऽमृतं चार्पितमीश्वरोऽपि हि॥ 12-234-118(74755)
द्विजोत्तमैः सर्वगतैरभिष्टुतो
विदीप्ततेजाः शतमन्युरीश्वरः।
प्रशान्तचेता मुदितः स्वमालयं
त्रिविष्टपं प्राप्य मुमोद वासवः॥ ॥ 12-234-119(74756)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुस्त्रिंशदधिकद्विशततमोऽध्यायः॥ 234॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-234-20 श्रुत्वामुखमसंभ्रान्त इति झ. ट. थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|